top of page
संविच्छतकम् (त्यागराजविरचितम्) | sanvichchatakam
संविच्छतकम्
॥ अथ त्यागराजविरचितम् संविच्छतकम् ॥
यस्या नित्यं चरणकमलद्वन्द्वमैश्चर्यबीजं
प्रध्यायन्तो हृदयकमले पुण्यभाजो मुनीन्द्राः ।
निर्द्वन्द्वं तत् समरसमहो प्राप्य तिष्ठन्ति तस्मिन्
तस्यै देव्यै तपनरुचये तत्त्वतोऽस्तु प्रणामः ॥ १॥
या कल्याणगुणप्रसूः परशिवानन्दामृतस्यन्दिनी
भूमानन्दमयी परापरमयी तेजोमयी वाङ्ग्मयी ।
आद्यान्तार्णतनूः शिवादिवसुधान्तान्तःप्रकाशात्मिका
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ २॥
यस्यां प्रोतमिदं चतुर्दशजगत् सूत्रे मणिस्तोमवद्
यस्या…bottom of page
